|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.89. अध्यायः 089
Mahabharata - Udyoga Parva - Chapter Topics
प्रातः कृताह्निकस्य श्रीकृष्णस्य वृकस्थलात्कुरुपुरमुपेत्य धृतराष्ट्रभवनपरवेशः ॥ 1 ॥ तथा धृतराष्ट्रपूजां स्वीकृत्य विदुरसदनगमनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-89-0x(3654)(34872)
प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम्।
ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति ॥ 5-89-1(34873)
तं प्रयान्तं महाबाहुमनुज्ञाप्य महाबलम् ।
पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः ॥ 5-89-2(34874)
` प्रददौ पुण्डरीकाक्षो रत्नानि च धनानि च।
तान्प्रस्थाप्य महाबाहुरुपायात्कुरुसंसदम् ॥' 5-89-3(34875)
धार्तराष्ट्रास्तमायान्तं प्रत्युञ्जग्मुः स्वलङ्कृताः ।
दुर्योधनादृते सर्वे भीष्मद्रोणकृपादयः ॥ 5-89-4(34876)
पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः ।
यानैर्बहुविधैरन्ये पद्भिरेव तथाऽपरे ॥ 5-89-5(34877)
स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा ।
द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ ॥ 5-89-6(34878)
कृष्णसंमाननार्थं च नगरं समलङ्कृतम्।
बभूव राजमार्गश्च बहुरत्नसमाचितः ॥ 5-89-7(34879)
न च कश्चिद्गृहे राजंस्तदाऽऽसीद्भरतर्षभ।
न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया ॥ 5-89-8(34880)
राजमार्गे नरास्तस्मिन्संस्तुवन्त्यवनिं गताः ।
तस्मिन्काले महाराज हृषीकेशप्रवेशने ॥ 5-89-9(34881)
आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि ।
प्रचलन्तीव भारेण दृश्यन्तेस्म महीतले ॥ 5-89-10(34882)
तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः ।
प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते ॥ 5-89-11(34883)
स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः।
पाण्डुरैः पुण्डरीकाक्षः प्रासादैरुपशोभितम् ॥ 5-89-12(34884)
तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः ।
वैचित्रवीर्यं राजानमभ्यगच्छदरिन्दमः ॥ 5-89-13(34885)
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नराधिपः ।
तहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ॥ 5-89-14(34886)
कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः।
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ॥ 5-89-15(34887)
ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम्।
सभीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा ॥ 5-89-16(34888)
तेषु धर्मानुपूर्वी तां प्रयुज्य मधुसूदनः ।
यथावयः समीयाय राजभिः सह माधवः ॥ 5-89-17(34889)
अथ द्रोणं सबाह्लीकं सपुत्रं च यशस्विनम्।
कृपं च सोमदत्तं च समीयाय जनार्दनः ॥ 5-89-18(34890)
तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम् ।
शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः ॥ 5-89-19(34891)
अथ गां मधुपर्कं चाप्युदकं च जनार्दने ।
उपजह्नुर्यथान्यायं धृतराष्ट्रपुरोहिताः ॥ 5-89-20(34892)
कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून् ।
आस्ते सांबन्धिकं कुर्वन्कुरुभिः परिवारितः ॥ 5-89-21(34893)
सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः ।
राजानं समनुज्ञाप्य निरक्रामदरिन्दमः॥ 5-89-22(34894)
तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि ।
विदुरावसथं रम्यमुपातिष्ठत माधवः ॥ 5-89-23(34895)
विदुरः सर्वकल्याणैरभिगम्य जनार्दनम् ।
अर्चयामास दाशार्हं सर्वकामैरुपस्थितम् ॥ 5-89-24(34896)
कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित्।
कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम् ॥ 5-89-25(34897)
प्रीयमाणस्य सुहृदो विदुरो बुद्धिसत्तमः ।
धर्मार्थनित्यस्य सतो गतरोवस्य धीमतः ॥ 5-89-26(34898)
तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् ।
क्षत्तुराचष्ट दाशार्हः सर्वं प्रत्यक्षदर्शिवान् ॥ ॥ 5-89-27(34899)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकोननवतितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-89-22 पूजितः स्तुतः ॥ 5-89-26 विदुरः पाण्डवानां विचेष्टितं तस्य तं कृष्णं प्रति अपृच्छदित्यनुकृष्यान्वयः। षष्ठ्यो द्वितीयार्थे ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|